Utshovऐप डाउनलोड करें

सूक्त 17

17.1

८ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शव॑ः ॥१॥

17.2

अ॒भि सु॑वा॒नास॒ इन्द॑वो वृ॒ष्टय॑ः पृथि॒वीमि॑व । इन्द्रं॒ सोमा॑सो अक्षरन् ॥२॥

17.3

अत्यू॑र्मिर्मत्स॒रो मद॒ः सोम॑ः प॒वित्रे॑ अर्षति । वि॒घ्नन्रक्षां॑सि देव॒युः ॥३॥

17.4

आ क॒लशे॑षु धावति प॒वित्रे॒ परि॑ षिच्यते । उ॒क्थैर्य॒ज्ञेषु॑ वर्धते ॥४॥

17.5

अति॒ त्री सो॑म रोच॒ना रोह॒न्न भ्रा॑जसे॒ दिव॑म् । इ॒ष्णन्त्सूर्यं॒ न चो॑दयः ॥५॥

17.6

अ॒भि विप्रा॑ अनूषत मू॒र्धन्य॒ज्ञस्य॑ का॒रव॑ः । दधा॑ना॒श्चक्ष॑सि प्रि॒यम् ॥६॥

17.7

तमु॑ त्वा वा॒जिनं॒ नरो॑ धी॒भिर्विप्रा॑ अव॒स्यव॑ः । मृ॒जन्ति॑ दे॒वता॑तये ॥७॥

17.8

मधो॒र्धारा॒मनु॑ क्षर ती॒व्रः स॒धस्थ॒मास॑दः । चारु॑ॠ॒ताय॑ पी॒तये॑ ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.