Utshovऐप डाउनलोड करें

सूक्त 15

15.1

८ काश्यपोऽसितो देवलो वा । पवमानः सोमः । गायत्री ।

ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑ः । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥१॥

15.2

ए॒ष पु॒रू धि॑यायते बृह॒ते दे॒वता॑तये । यत्रा॒मृता॑स॒ आस॑ते ॥२॥

15.3

ए॒ष हि॒तो वि नी॑यते॒ऽन्तः शु॒भ्राव॑ता प॒था । यदी॑ तु॒ञ्जन्ति॒ भूर्ण॑यः ॥३॥

15.4

ए॒ष शृङ्गा॑णि॒ दोधु॑व॒च्छिशी॑ते यू॒थ्यो॒३ वृषा॑ । नृ॒म्णा दधा॑न॒ ओज॑सा ॥४॥

15.5

ए॒ष रु॒क्मिभि॑रीयते वा॒जी शु॒भ्रेभि॑रं॒शुभि॑ः । पति॒ः सिन्धू॑नां॒ भव॑न् ॥५॥

15.6

ए॒ष वसू॑नि पिब्द॒ना परु॑षा ययि॒वाँ अति॑ । अव॒ शादे॑षु गच्छति ॥६॥

15.7

ए॒तं मृ॑जन्ति॒ मर्ज्य॒मुप॒ द्रोणे॑ष्वा॒यव॑ः । प्र॒च॒क्रा॒णं म॒हीरिष॑ः ॥७॥

15.8

ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जन्ति॑ स॒प्त धी॒तय॑ः । स्वा॒यु॒धं म॒दिन्त॑मम् ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.