Utshovऐप डाउनलोड करें

सूक्त 94

94.1

१२ बिन्दुः पूतदक्षो वा आङ्गिरसः । मरुतः । गायत्री ।

गौर्ध॑यति म॒रुतां॑ श्रव॒स्युर्मा॒ता म॒घोना॑म् । यु॒क्ता वह्नी॒ रथा॑नाम् ॥१॥

94.2

यस्या॑ दे॒वा उ॒पस्थे॑ व्र॒ता विश्वे॑ धा॒रय॑न्ते । सूर्या॒मासा॑ दृ॒शे कम् ॥२॥

94.3

तत्सु नो॒ विश्वे॑ अ॒र्य आ सदा॑ गृणन्ति का॒रव॑ः । म॒रुत॒ः सोम॑पीतये ॥३॥

94.4

अस्ति॒ सोमो॑ अ॒यं सु॒तः पिब॑न्त्यस्य म॒रुत॑ः । उ॒त स्व॒राजो॑ अ॒श्विना॑ ॥४॥

94.5

पिब॑न्ति मि॒त्रो अ॑र्य॒मा तना॑ पू॒तस्य॒ वरु॑णः । त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ॥५॥

94.6

उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्र॑ः सु॒तस्य॒ गोम॑तः । प्रा॒तर्होते॑व मत्सति ॥६॥

94.7

कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिध॑ः । अर्ष॑न्ति पू॒तद॑क्षसः ॥७॥

94.8

कद्वो॑ अ॒द्य म॒हानां॑ दे॒वाना॒मवो॑ वृणे । त्मना॑ च द॒स्मव॑र्चसाम् ॥८॥

94.9

आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः । म॒रुत॒ः सोम॑पीतये ॥९॥

94.10

त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥१०॥

94.11

त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥११॥

94.12

त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे । अ॒स्य सोम॑स्य पी॒तये॑ ॥१२॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.