सूक्त 85
85.1
९ कृष्ण आङ्गिरसः । अश्विनौ ।गायत्री ।
आ मे॒ हवं॑ नास॒त्याऽश्वि॑ना॒ गच्छ॑तं यु॒वम् । मध्व॒ः सोम॑स्य पी॒तये॑ ॥१॥
85.2
इ॒मं मे॒ स्तोम॑मश्विने॒मं मे॑ शृणुतं॒ हव॑म् । मध्व॒ः सोम॑स्य पी॒तये॑ ॥२॥
85.3
अ॒यं वां॒ कृष्णो॑ अश्विना॒ हव॑ते वाजिनीवसू । मध्व॒ः सोम॑स्य पी॒तये॑ ॥३॥
85.4
शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा । मध्व॒ः सोम॑स्य पी॒तये॑ ॥४॥
85.5
छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा । मध्व॒ः सोम॑स्य पी॒तये॑ ॥५॥
85.6
गच्छ॑तं दा॒शुषो॑ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना । मध्व॒ः सोम॑स्य पी॒तये॑ ॥६॥
85.7
यु॒ञ्जाथां॒ रास॑भं॒ रथे॑ वी॒ड्व॑ङ्गे वृषण्वसू । मध्व॒ः सोम॑स्य पी॒तये॑ ॥७॥
85.8
त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या॑तमश्विना । मध्व॒ः सोम॑स्य पी॒तये॑ ॥८॥
85.9
नू मे॒ गिरो॑ नास॒त्याऽश्वि॑ना॒ प्राव॑तं यु॒वम् । मध्व॒ः सोम॑स्य पी॒तये॑ ॥९॥