Utshovऐप डाउनलोड करें

सूक्त 55

55.1

५ कृशः काण्वः। इन्द्रः, प्रस्कण्वश्च । गायत्री , ३, ५ अनुष्टुप् ।

भूरीदिन्द्र॑स्य वी॒र्यं१ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥१॥

55.2

श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते । म॒ह्ना दिवं॒ न त॑स्तभुः ॥२॥

55.3

श॒तं वे॒णूञ्छ॒तं शुन॑ः श॒तं चर्मा॑णि म्ला॒तानि॑ । श॒तं मे॑ बल्बजस्तु॒का अरु॑षीणां॒ चतु॑ःशतम् ॥३॥

55.4

सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो॑वयो विच॒रन्त॑ः । अश्वा॑सो॒ न च॑ङ्क्रमत ॥४॥

55.5

आदित्सा॒प्तस्य॑ चर्किर॒न्नानू॑नस्य॒ महि॒ श्रव॑ः । श्यावी॑रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे॑ ॥५॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.