Utshovऐप डाउनलोड करें

सूक्त 57

57.1

७ मैत्रावरुणिर्वसिष्ठः।मरुतः। त्रिष्टुप् ।

मध्वो॑ वो॒ नाम॒ मारु॑तं यजत्रा॒ः प्र य॒ज्ञेषु॒ शव॑सा मदन्ति ।
ये रे॒जय॑न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया॑सुरु॒ग्राः ॥१॥

57.2

नि॒चे॒तारो॒ हि म॒रुतो॑ गृ॒णन्तं॑ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ ।
अ॒स्माक॑म॒द्य वि॒दथे॑षु ब॒र्हिरा वी॒तये॑ सदत पिप्रिया॒णाः ॥२॥

57.3

नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज॑न्ते रु॒क्मैरायु॑धैस्त॒नूभि॑ः ।
आ रोद॑सी विश्व॒पिश॑ः पिशा॒नाः स॑मा॒नम॒ञ्ज्य॑ञ्जते शु॒भे कम् ॥३॥

57.4

ऋध॒क्सा वो॑ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आग॑ः पुरु॒षता॒ करा॑म ।
मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो॑ अस्तु सुम॒तिश्चनि॑ष्ठा ॥४॥

57.5

कृ॒ते चि॒दत्र॑ म॒रुतो॑ रणन्ताऽनव॒द्यास॒ः शुच॑यः पाव॒काः ।
प्र णो॑ऽवत सुम॒तिभि॑र्यजत्रा॒ः प्र वाजे॑भिस्तिरत पु॒ष्यसे॑ नः ॥५॥

57.6

उ॒त स्तु॒तासो॑ म॒रुतो॑ व्यन्तु॒ विश्वे॑भि॒र्नाम॑भि॒र्नरो॑ ह॒वींषि॑ । द
दा॑त नो अ॒मृत॑स्य प्र॒जायै॑ जिगृ॒त रा॒यः सू॒नृता॑ म॒घानि॑ ॥६॥

57.7

आ स्तु॒तासो॑ मरुतो॒ विश्व॑ ऊ॒ती अच्छा॑ सू॒रीन्त्स॒र्वता॑ता जिगात ।
ये न॒स्त्मना॑ श॒तिनो॑ व॒र्धय॑न्ति यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.