Utshovऐप डाउनलोड करें

सूक्त 34

34.1

११ वामदेवो गौतमः। ऋभवः। त्रिष्टुप्।

ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो॑ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात ।
इ॒दा हि वो॑ धि॒षणा॑ दे॒व्यह्ना॒मधा॑त् पी॒तिं सं मदा॑ अग्मता वः ॥१॥

34.2

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम् ।
सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२॥

34.3

अ॒यं वो॑ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत् प्र॒दिवो॑ दधि॒ध्वे ।
प्र वोऽच्छा॑ जुजुषा॒णासो॑ अस्थु॒रभू॑त॒ विश्वे॑ अग्रि॒योत वा॑जाः ॥३॥

34.4

अभू॑दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या॑य ।
पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा॑य ॥४॥

34.5

आ वा॑जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः ।
आ व॑ः पी॒तयो॑ऽभिपि॒त्वे अह्ना॑मि॒मा अस्तं॑ नव॒स्व॑ इव ग्मन् ॥५॥

34.6

आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा॑नाः ।
स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्व॑ः पात रत्न॒धा इन्द्र॑वन्तः ॥६॥

34.7

स॒जोषा॑ इन्द्र॒ वरु॑णेन॒ सोमं॑ स॒जोषा॑ः पाहि गिर्वणो म॒रुद्भि॑ः ।
अ॒ग्रे॒पाभि॑र्ऋतु॒पाभि॑ः स॒जोषा॒ ग्नास्पत्नी॑भी रत्न॒धाभि॑ः स॒जोषा॑ः ॥७॥

34.8

स॒जोष॑स आदि॒त्यैर्मा॑दयध्वं स॒जोष॑स ऋभव॒ः पर्व॑तेभिः ।
स॒जोष॑सो॒ दैव्ये॑ना सवि॒त्रा स॒जोष॑स॒ः सिन्धु॑भी रत्न॒धेभि॑ः ॥८॥

34.9

ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुर्ऋ॒भवो॒ ये अश्वा॑ ।
ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नर॑ः स्वप॒त्यानि॑ च॒क्रुः ॥९॥

34.10

ये गोम॑न्तं॒ वाज॑वन्तं सु॒वीरं॑ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् ।
ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ॥१०॥

34.11

नापा॑भूत॒ न वो॑ऽतीतृषा॒माऽनि॑ःशस्ता ऋभवो य॒ज्ञे अ॒स्मिन् ।
समिन्द्रे॑ण॒ मद॑थ॒ सं म॒रुद्भि॒ः सं राज॑भी रत्न॒धेया॑य देवाः ॥११॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.