Utshovऐप डाउनलोड करें

सूक्त 15

15.1

१० वामदेवो गौतमः। अग्निः, ७-८ सोमकः साहदेव्यः, ९-१० अश्विनौ। गायत्री।

अ॒ग्निर्होता॑ नो अध्व॒रे वा॒जी सन् परि॑ णीयते । दे॒वो दे॒वेषु॑ य॒ज्ञिय॑ः ॥१॥

15.2

परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व । आ दे॒वेषु॒ प्रयो॒ दध॑त् ॥२॥

15.3

परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् । दध॒द् रत्ना॑नि दा॒शुषे॑ ॥३॥

15.4

अ॒यं यः सृञ्ज॑ये पु॒रो दै॑ववा॒ते स॑मि॒ध्यते॑ । द्यु॒माँ अ॑मित्र॒दम्भ॑नः ॥४॥

15.5

अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी॑शीत॒ मर्त्य॑ः । ति॒ग्मज॑म्भस्य मी॒ळहुष॑ः ॥५॥

15.6

तमर्व॑न्तं॒ न सा॑न॒सिम॑रु॒षं न दि॒वः शिशु॑म् । म॒र्मृ॒ज्यन्ते॑ दि॒वेदि॑वे ॥६॥

15.7

बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा॑हदे॒व्यः । अच्छा॒ न हू॒त उद॑रम् ॥७॥

15.8

उ॒त त्या य॑ज॒ता हरी॑ कुमा॒रात् सा॑हदे॒व्यात् । प्रय॑ता स॒द्य आ द॑दे ॥८॥

15.9

ए॒ष वां॑ देवावश्विना कुमा॒रः सा॑हदे॒व्यः । दी॒र्घायु॑रस्तु॒ सोम॑कः ॥९॥

15.10

तं यु॒वं दे॑वावश्विना कुमा॒रं सा॑हदे॒व्यम् । दी॒र्घायु॑षं कृणोतन ॥१०॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.