Utshovऐप डाउनलोड करें

सूक्त 190

190.1

८ अगस्त्यो मैत्रावरुणिः । बृहस्पतिः। त्रिष्टुप्।

अ॒न॒र्वाणं॑ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं॑ वर्धया॒ नव्य॑म॒र्कैः ।
गा॒था॒न्य॑ः सु॒रुचो॒ यस्य॑ दे॒वा आ॑शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ता॑ः ॥१॥

190.2

तमृ॒त्विया॒ उप॒ वाच॑ः सचन्ते॒ सर्गो॒ न यो दे॑वय॒तामस॑र्जि ।
बृह॒स्पति॒ः स ह्यञ्जो॒ वरां॑सि॒ विभ्वाभ॑व॒त् समृ॒ते मा॑त॒रिश्वा॑ ॥२॥

190.3

उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं॑ यंसत् सवि॒तेव॒ प्र बा॒हू ।
अ॒स्य क्रत्वा॑ह॒न्यो॒३ यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ॥३॥

190.4

अ॒स्य श्लोको॑ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं॑सद् यक्ष॒भृद् विचे॑ताः ।
मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ॥४॥

190.5

ये त्वा॑ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव॑न्ति प॒ज्राः ।
न दू॒ढ्ये॒३ अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत् पिया॑रुम् ॥५॥

190.6

सु॒प्रैतु॑ः सू॒यव॑सो॒ न पन्था॑ दुर्नि॒यन्तु॒ः परि॑प्रीतो॒ न मि॒त्रः ।
अ॒न॒र्वाणो॑ अ॒भि ये चक्ष॑ते॒ नोऽपी॑वृता अपोर्णु॒वन्तो॑ अस्थुः ॥६॥

190.7

सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः ।
स वि॒द्वाँ उ॒भयं॑ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्र॑ः ॥७॥

190.8

ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न् बृह॒स्पति॑र्वृष॒भो धा॑यि दे॒वः ।
स न॑ः स्तु॒तो वी॒रव॑द् धातु॒ गोम॑द् वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.