सूक्त 137
137.1
३ परुच्छेपो दैवोदासिः। मित्रावरुणौ।अतिशक्वरी।
सु॒षु॒मा या॑त॒मद्रि॑भि॒र्गोश्री॑ता मत्स॒रा इ॒मे सोमा॑सो मत्स॒रा इ॒मे ।
आ रा॑जाना दिविस्पृशा ऽस्म॒त्रा ग॑न्त॒मुप॑ नः ।
इ॒मे वां॑ मित्रावरुणा॒ गवा॑शिर॒ः सोमा॑ः शु॒क्रा गवा॑शिरः ॥१॥
137.2
इ॒म आ या॑त॒मिन्द॑व॒ः सोमा॑सो॒ दध्या॑शिरः सु॒तासो॒ दध्या॑शिरः ।
उ॒त वा॑मु॒षसो॑ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभि॑ः ।
सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑र्ऋ॒ताय॑ पी॒तये॑ ॥२॥
137.3
तां वां॑ धे॒नुं न वा॑स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भि॒ः सोमं॑ दुह॒न्त्यद्रि॑भिः ।
अ॒स्म॒त्रा ग॑न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये ।
अ॒यं वां॑ मित्रावरुणा॒ नृभि॑ः सु॒तः सोम॒ आ पी॒तये॑ सु॒तः ॥३॥