Utshovऐप डाउनलोड करें

सूक्त 100

100.1

१९ वार्षागिराः ऋज्रा श्वाऽम्बरीष-सहदेव-भयमान-सुराधसः। इन्द्रः। त्रिष्टुप्।

स यो वृषा॒ वृष्ण्ये॑भि॒ः समो॑का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् ।
स॒ती॒नस॑त्वा॒ हव्यो॒ भरे॑षु म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१॥

100.2

यस्याना॑प्त॒ः सूर्य॑स्येव॒ यामो॒ भरे॑भरे वृत्र॒हा शुष्मो॒ अस्ति॑ ।
वृष॑न्तम॒ः सखि॑भि॒ः स्वेभि॒रेवै॑र्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥२॥

100.3

दि॒वो न यस्य॒ रेत॑सो॒ दुघा॑ना॒ः पन्था॑सो॒ यन्ति॒ शव॒साप॑रीताः ।
त॒रद्द्वे॑षाः सास॒हिः पौंस्ये॑भिर्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥३॥

100.4

सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द् वृषा॒ वृष॑भि॒ः सखि॑भि॒ः सखा॒ सन् ।
ऋ॒ग्मिभि॑र्ऋग्मी गा॒तुभि॒र्ज्येष्ठो॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥४॥

100.5

स सू॒नुभि॒र्न रु॒द्रेभि॒र्ऋभ्वा॑ नृ॒षाह्ये॑ सास॒ह्वाँ अ॒मित्रा॑न् ।
सनी॑ळेभिः श्रव॒स्या॑नि॒ तूर्व॑न् म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥५॥

100.6

स म॑न्यु॒मीः स॒मद॑नस्य क॒र्ता ऽस्माके॑भि॒र्नृभि॒ः सूर्यं॑ सनत् ।
अ॒स्मिन्नह॒न्त्सत्प॑तिः पुरुहू॒तो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥६॥

100.7

तमू॒तयो॑ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तय॑ः कृण्वत॒ त्राम् ।
स विश्व॑स्य क॒रुण॑स्येश॒ एको॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥७॥

100.8

तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना॑य ।
सो अ॒न्धे चि॒त् तम॑सि॒ ज्योति॑र्विदन् म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥८॥

100.9

स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त् स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ ।
स की॒रिणा॑ चि॒त् सनि॑ता॒ धना॑नि म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥९॥

100.10

स ग्रामे॑भि॒ः सनि॑ता॒ स रथे॑भिर्वि॒दे विश्वा॑भिः कृ॒ष्टिभि॒र्न्व१द्य ।
स पौंस्ये॑भिरभि॒भूरश॑स्तीर्म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१०॥

100.11

स जा॒मिभि॒र्यत् स॒मजा॑ति मी॒ह्ले ऽजा॑मिभिर्वा पुरुहू॒त एवै॑ः ।
अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥
स व॑ज्र॒भृद् द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी॑थ॒ ऋभ्वा॑ ।
च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१२॥

100.12

तस्य॒ वज्र॑ः क्रन्दति॒ स्मत् स्व॒र्षा दि॒वो न त्वे॒षो र॒वथ॒ः शिमी॑वान् ।
तं स॑चन्ते स॒नय॒स्तं धना॑नि म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१३॥

100.13

यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद् रोद॑सी वि॒श्वत॑ः सीम् ।
स पा॑रिष॒त् क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१४॥

100.14

न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः ।
स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा॑न् नो भव॒त्विन्द्र॑ ऊ॒ती ॥१५॥

100.15

रो॒हिच्छ्या॒वा सु॒मदं॑शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य ।
वृष॑ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं॑ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ॥१६॥

100.16

ए॒तत् त्यत् त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा॑र्षागि॒रा अ॒भि गृ॑णन्ति॒ राध॑ः ।
ऋ॒ज्राश्व॒ः प्रष्टि॑भिरम्ब॒रीष॑ः स॒हदे॑वो॒ भय॑मानः सु॒राधा॑ः ॥१७॥

100.17

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् ।
सन॒त् क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒ः सन॒त् सूर्यं॒ सन॑द॒पः सु॒वज्र॑ः ॥१८॥

100.18

वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् ।
तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ः सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥१९॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.