महाभारत 329.48
नारायणो लोकहितार्थं वडवामुखो नाम महर्षिः पुराभवत्
तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः
तेनामर्षितेनात्मगात्रोष्मणा समुद्रः स्तिमितजलः कृतः
स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः
उक्तश्चापेयो भविष्यसि
एतच्च ते तोयं वडवामुखसंज्ञितेन पीयमानं मधुरं भविष्यति
तदेतदद्यापि वडवामुखसंज्ञितेनानुवर्तिना तोयं सामुद्रं पीयते