Utshovऐप डाउनलोड करें

महाभारत 329.3

संप्रक्षालनकालेऽतिक्रान्ते चतुर्थे युगसहस्रान्ते
अव्यक्ते सर्वभूतप्रलये स्थावरजङ्गमे
ज्योतिर्धरणिवायुरहितेऽन्धे तमसि जलैकार्णवे लोके
तम इत्येवाभिभूतेऽसंज्ञकेऽद्वितीये प्रतिष्ठिते
नैव रात्र्यां न दिवसे न सति नासति न व्यक्ते नाव्यक्ते व्यवस्थिते
एतस्यामवस्थायां नारायणगुणाश्रयादक्षयादजरादनिन्द्रियादग्राह्यादसंभवात्सत्यादहिंस्राल्ललामाद्विविधप्रवृत्तिविशेषात्
अक्षयादजरामरादमूर्तितः सर्वव्यापिनः सर्वकर्तुः शाश्वतात्तमसः पुरुषः प्रादुर्भूतो हरिरव्ययः

पूरा अध्याय