Utshovऐप डाउनलोड करें

महाभारत 329.26

देवास्तत्रागच्छन्यत्र दधीचो भगवानृषिस्तपस्तेपे
सेन्द्रा देवास्तमभिगम्योचुर्भगवंस्तपसः कुशलमविघ्नं चेति
तान्दधीच उवाच स्वागतं भवद्भ्यः किं क्रियताम्
यद्वक्ष्यथ तत्करिष्यामीति
ते तमब्रुवञ्शरीरपरित्यागं लोकहितार्थं भगवान्कर्तुमर्हतीति
अथ दधीचस्तथैवाविमनाः सुखदुःखसमो महायोगी आत्मानं समाधाय शरीरपरित्यागं चकार

पूरा अध्याय