Utshovऐप डाउनलोड करें

अध्याय 209

209.1

गुरुरुवाच
निष्कल्मषं ब्रह्मचर्यमिच्छता चरितुं सदा
निद्रा सर्वात्मना त्याज्या स्वप्नदोषानवेक्षता

209.2

स्वप्ने हि रजसा देही तमसा चाभिभूयते
देहान्तरमिवापन्नश्चरत्यपगतस्मृतिः

209.3

ज्ञानाभ्यासाज्जागरतो जिज्ञासार्थमनन्तरम्
विज्ञानाभिनिवेशात्तु जागरत्यनिशं सदा

209.4

अत्राह को न्वयं भावः स्वप्ने विषयवानिव
प्रलीनैरिन्द्रियैर्देही वर्तते देहवानिव

209.5

अत्रोच्यते यथा ह्येतद्वेद योगेश्वरो हरिः
तथैतदुपपन्नार्थं वर्णयन्ति महर्षयः

209.6

इन्द्रियाणां श्रमात्स्वप्नमाहुः सर्वगतं बुधाः
मनसस्तु प्रलीनत्वात्तत्तदाहुर्निदर्शनम्

209.7

कार्यव्यासक्तमनसः संकल्पो जाग्रतो ह्यपि
यद्वन्मनोरथैश्वर्यं स्वप्ने तद्वन्मनोगतम्

209.8

संसाराणामसंख्यानां कामात्मा तदवाप्नुयात्
मनस्यन्तर्हितं सर्वं वेद सोत्तमपूरुषः

209.9

गुणानामपि यद्यत्तत्कर्म जानात्युपस्थितम्
तत्तच्छंसन्ति भूतानि मनो यद्भावितं यथा

209.10

ततस्तमुपवर्तन्ते गुणा राजसतामसाः
सात्त्विको वा यथायोगमानन्तर्यफलोदयः

209.11

ततः पश्यत्यसंबद्धान्वातपित्तकफोत्तरान्
रजस्तमोभवैर्भावैस्तदप्याहुर्दुरन्वयम्

209.12

प्रसन्नैरिन्द्रियैर्यद्यत्संकल्पयति मानसम्
तत्तत्स्वप्नेऽप्युपरते मनोदृष्टिर्निरीक्षते

209.13

व्यापकं सर्वभूतेषु वर्ततेऽप्रतिघं मनः
मनस्यन्तर्हितं द्वारं देहमास्थाय मानसम्

209.14

यत्तत्सदसदव्यक्तं स्वपित्यस्मिन्निदर्शनम्
सर्वभूतात्मभूतस्थं तदध्यात्मगुणं विदुः

209.15

लिप्सेत मनसा यश्च संकल्पादैश्वरं गुणम्
आत्मप्रभावात्तं विद्यात्सर्वा ह्यात्मनि देवताः

209.16

एवं हि तपसा युक्तमर्कवत्तमसः परम्
त्रैलोक्यप्रकृतिर्देही तपसा तं महेश्वरम्

209.17

तपो ह्यधिष्ठितं देवैस्तपोघ्नमसुरैस्तमः
एतद्देवासुरैर्गुप्तं तदाहुर्ज्ञानलक्षणम्

209.18

सत्त्वं रजस्तमश्चेति देवासुरगुणान्विदुः
सत्त्वं देवगुणं विद्यादितरावासुरौ गुणौ

209.19

ब्रह्म तत्परमं वेद्यममृतं ज्योतिरक्षरम्
ये विदुर्भावितात्मानस्ते यान्ति परमां गतिम्

209.20

हेतुमच्छक्यमाख्यातुमेतावज्ज्ञानचक्षुषा
प्रत्याहारेण वा शक्यमव्यक्तं ब्रह्म वेदितुम्

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.