Utshovऐप डाउनलोड करें

अध्याय 187

187.1

वैशंपायन उवाच
तत आहूय पाञ्चाल्यो राजपुत्रं युधिष्ठिरम्
परिग्रहेण ब्राह्मेण परिगृह्य महाद्युतिः

187.2

पर्यपृच्छददीनात्मा कुन्तीपुत्रं सुवर्चसम्
कथं जानीम भवतः क्षत्रियान्ब्राह्मणानुत

187.3

वैश्यान्वा गुणसंपन्नानुत वा शूद्रयोनिजान्
मायामास्थाय वा सिद्धांश्चरतः सर्वतोदिशम्

187.4

कृष्णाहेतोरनुप्राप्तान्दिवः संदर्शनार्थिनः
ब्रवीतु नो भवान्सत्यं संदेहो ह्यत्र नो महान्

187.5

अपि नः संशयस्यान्ते मनस्तुष्टिरिहाविशेत्
अपि नो भागधेयानि शुभानि स्युः परंतप

187.6

कामया ब्रूहि सत्यं त्वं सत्यं राजसु शोभते
इष्टापूर्तेन च तथा वक्तव्यमनृतं न तु

187.7

श्रुत्वा ह्यमरसंकाश तव वाक्यमरिंदम
ध्रुवं विवाहकरणमास्थास्यामि विधानतः

187.8

युधिष्ठिर उवाच
मा राजन्विमना भूस्त्वं पाञ्चाल्य प्रीतिरस्तु ते
ईप्सितस्ते ध्रुवः कामः संवृत्तोऽयमसंशयम्

187.9

वयं हि क्षत्रिया राजन्पाण्डोः पुत्रा महात्मनः
ज्येष्ठं मां विद्धि कौन्तेयं भीमसेनार्जुनाविमौ
याभ्यां तव सुता राजन्निर्जिता राजसंसदि

187.10

यमौ तु तत्र राजेन्द्र यत्र कृष्णा प्रतिष्ठिता
व्येतु ते मानसं दुःखं क्षत्रियाः स्मो नरर्षभ
पद्मिनीव सुतेयं ते ह्रदादन्यं ह्रदं गता

187.11

इति तथ्यं महाराज सर्वमेतद्ब्रवीमि ते
भवान्हि गुरुरस्माकं परमं च परायणम्

187.12

वैशंपायन उवाच
ततः स द्रुपदो राजा हर्षव्याकुललोचनः
प्रतिवक्तुं तदा युक्तं नाशकत्तं युधिष्ठिरम्

187.13

यत्नेन तु स तं हर्षं संनिगृह्य परंतपः
अनुरूपं ततो राजा प्रत्युवाच युधिष्ठिरम्

187.14

पप्रच्छ चैनं धर्मात्मा यथा ते प्रद्रुताः पुरा
स तस्मै सर्वमाचख्यावानुपूर्व्येण पाण्डवः

187.15

तच्छ्रुत्वा द्रुपदो राजा कुन्तीपुत्रस्य भाषितम्
विगर्हयामास तदा धृतराष्ट्रं जनेश्वरम्

187.16

आश्वासयामास च तं कुन्तीपुत्रं युधिष्ठिरम्
प्रतिजज्ञे च राज्याय द्रुपदो वदतां वरः

187.17

ततः कुन्ती च कृष्णा च भीमसेनार्जुनावपि
यमौ च राज्ञा संदिष्टौ विविशुर्भवनं महत्

187.18

तत्र ते न्यवसन्राजन्यज्ञसेनेन पूजिताः
प्रत्याश्वस्तांस्ततो राजा सह पुत्रैरुवाच तान्

187.19

गृह्णातु विधिवत्पाणिमद्यैव कुरुनन्दनः
पुण्येऽहनि महाबाहुरर्जुनः कुरुतां क्षणम्

187.20

ततस्तमब्रवीद्राजा धर्मपुत्रो युधिष्ठिरः
ममापि दारसंबन्धः कार्यस्तावद्विशां पते

187.21

द्रुपद उवाच
भवान्वा विधिवत्पाणिं गृह्णातु दुहितुर्मम
यस्य वा मन्यसे वीर तस्य कृष्णामुपादिश

187.22

युधिष्ठिर उवाच
सर्वेषां द्रौपदी राजन्महिषी नो भविष्यति
एवं हि व्याहृतं पूर्वं मम मात्रा विशां पते

187.23

अहं चाप्यनिविष्टो वै भीमसेनश्च पाण्डवः
पार्थेन विजिता चैषा रत्नभूता च ते सुता

187.24

एष नः समयो राजन्रत्नस्य सहभोजनम्
न च तं हातुमिच्छामः समयं राजसत्तम

187.25

सर्वेषां धर्मतः कृष्णा महिषी नो भविष्यति
आनुपूर्व्येण सर्वेषां गृह्णातु ज्वलने करम्

187.26

द्रुपद उवाच
एकस्य बह्व्यो विहिता महिष्यः कुरुनन्दन
नैकस्या बहवः पुंसो विधीयन्ते कदाचन

187.27

लोकवेदविरुद्धं त्वं नाधर्मं धार्मिकः शुचिः
कर्तुमर्हसि कौन्तेय कस्मात्ते बुद्धिरीदृशी

187.28

युधिष्ठिर उवाच
सूक्ष्मो धर्मो महाराज नास्य विद्मो वयं गतिम्
पूर्वेषामानुपूर्व्येण यातं वर्त्मानुयामहे

187.29

न मे वागनृतं प्राह नाधर्मे धीयते मतिः
एवं चैव वदत्यम्बा मम चैव मनोगतम्

187.30

एष धर्मो ध्रुवो राजंश्चरैनमविचारयन्
मा च तेऽत्र विशङ्का भूत्कथंचिदपि पार्थिव

187.31

द्रुपद उवाच
त्वं च कुन्ती च कौन्तेय धृष्टद्युम्नश्च मे सुतः
कथयन्त्वितिकर्तव्यं श्वः काले करवामहे

187.32

वैशंपायन उवाच
ते समेत्य ततः सर्वे कथयन्ति स्म भारत
अथ द्वैपायनो राजन्नभ्यागच्छद्यदृच्छया

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.