सूक्त 48
48.1
स्वस्तिवाचनम्। १-३ अङ्गिराः, प्रचेताः। १ श्येनः, २ ऋभुः, ३ वृषा। उष्णिक्।
श्ये॒नोऽसि गाय॒त्रच्छन्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥१॥
48.2
ऋ॒भुर॑सि॒ जग॑च्छन्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥२॥
48.3
वृषा॑सि त्रि॒ष्टुप्छ॑न्दा॒ अनु॒ त्वा र॑भे ।
स्व॒स्ति मा॒ सं व॑हा॒स्य य॒ज्ञस्यो॒दृचि॒ स्वाहा॑ ॥३॥