Utshovऐप डाउनलोड करें

सूक्त 47

47.1

दीर्घायुः प्राप्तिः। १-३ अङ्गिराः प्रचेताः। १ अग्निः, २ विश्वे देवाः, ३ सुधन्वा। त्रिष्टुप्।

अ॒ग्निः प्रा॑तःसव॒ने पा॑त्व॒स्मान् वै॑श्वान॒रो वि॑श्व॒कृद् वि॒श्वशं॑भूः ।
स नः॑ पाव॒को द्रवि॑णे दधा॒त्वायु॑ष्मन्तः सहभ॑क्षाः स्याम ॥१॥

47.2

विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मिन् द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः ।
आयु॑ष्मन्तः प्रि॒यमे॑षां॒ वद॑न्तो व॒यं दे॒वानां॑ सुम॒तौ स्या॑म ॥२॥

47.3

इ॒दं तृ॒तीयं॒ सव॑नं कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त ।
ते सौ॑धन्व॒नाः स्वऽरानशा॒नाः स्विऽष्टिं नो अ॒भि वस्यो॑ नयन्तु ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.