Utshovऐप डाउनलोड करें

सूक्त 127

127.1

यक्ष्मनाशनम्। १-३ भृग्वङ्गिराः। यक्ष्मनाशनम्, वनस्पतिः। अनुष्टुप्, ३ त्र्यवसाना षट्-पदा जगती।

वि॒द्र॒धस्य॑ ब॒लास॑स्य॒ लोहि॑तस्य वनस्पते ।
वि॒सल्प॑कस्योषधे॒ मोच्छि॑षः पिशि॒तं च॒न ॥१॥

127.2

यौ ते॑ बलास॒ तिष्ठ॑तः॒ कक्षे॑ मु॒ष्कावप॑श्रितौ ।
वेदा॒हं तस्य॑ भेष॒जं ची॒पुद्रु॑रभि॒चक्ष॑णम् ॥२॥

127.3

यो अङ्ग्यो॒ यः कर्ण्यो॒ यो अ॒क्ष्योर्वि॒सल्प॑कः ।
वि वृ॑हामो वि॒सल्प॑कं विद्र॒धं हृ॑दयाम॒यम्।
परा॒ तमज्ञा॑तं॒ यक्ष्म॑मध॒राञ्चं॑ सुवामसि ॥३॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.