सूक्त 16
16.1
वृषरोगशमनम्। १-११ विश्वामित्रः। एकवृषः। एकावसानं द्वैपदम्, १, ४, ५, ७-१० साम्नी उष्णिक्, २, ३ ,६, आसुरी अनुष्टुप्, ११ आसुरी गायत्री।
यद्ये॑कवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥१॥
16.2
यदि॑ द्विवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥२॥
16.3
यदि॑ त्रिवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥३॥
16.4
यदि॑ चतुर्वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥४॥
16.5
यदि॑ पञ्चवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥५॥
16.6
यदि॑ षड्-वृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥६॥
16.7
यदि॑ सप्तवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥७॥
16.8
यद्य॑ष्टवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥८॥
16.9
यदि॑ नववृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥९॥
16.10
यदि॑ दशवृ॒षोऽसि॑ सृ॒जार॒सोऽसि ॥१०॥
16.11
यद्ये॑काद॒शोऽसि॒ सोऽपो॑दको ऽसि ॥११॥