Utshovऐप डाउनलोड करें

सूक्त 5

5.1

इन्द्रस्य वीर्याणि। १-७ भृगुराथर्वणः। इन्द्रः। त्रिष्टुप्, १ उपरिष्टान्निचृद् बृहती, २ उपरिष्टाद्विराड् बृहती,३ विराट् पथ्या बृहती, ४ जगती पुरोविराट्।

इन्द्र॑ जु॒षस्व॒ प्र व॒हा या॑हि शूर॒ हरि॑भ्याम्।
पिबा॑ सु॒तस्य॑ म॒तेरि॒ह मधो॑श्चका॒नश्चारु॒र्मदा॑य ॥१॥

5.2

इन्द्र॑ ज॒ठरं॑ न॒व्यो न पृ॒णस्व॒ मधो॑र्दि॒वो न।
अ॒स्य सु॒तस्य॒ स्व॑१र्णोप॑ त्वा॒ मदाः॑ सु॒वाचो॑ अगुः ॥२॥

5.3

इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न।
बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न् मदे॒ सोम॑स्य ॥३॥

5.4

आ त्वा॑ विशन्तु सु॒तास॑ इन्द्र पृ॒णस्व॑ कु॒क्षी वि॒ड्ढि श॑क्र धि॒येह्या नः॑ ।
श्रु॒धी हवं॒ गिरो॑ मे जुष॒स्वेन्द्र॑ स्व॒युग्भि॒र्मत्स्वे॒ह म॒हे रणा॑य ॥४॥

5.5

इन्द्र॑स्य॒ नु प्रा वो॑चं वी॒र्याऽणि॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री।
अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा॑ अभिन॒त् पर्व॑तानाम् ॥५॥

5.6

अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा॑स्मै॒ वज्रं॑ स्व॒र्यं ऽ ततक्ष ।
वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ॥६॥

5.7

वृषा॒यमा॑णो अवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत् सु॒तस्य॑ ।
आ साय॑कं म॒घवा॑दत्त॒ वज्र॒मह॑न्नेनं प्रथम॒जामही॑नाम् ॥७॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.