Utshovऐप डाउनलोड करें

सूक्त 3

3.1

१-११ अथर्वा। अध्यात्मं, व्रात्यः। १ पिपीलिकमध्या गायत्री; २ साम्नी उष्णिक्; ३ याजुषी जगती; ४ द्विपदाऽर्च्युष्णिक्; ५ आर्ची बृहती; ६ आसुर्यनुष्टुप्; ७ साम्नी गायत्री; ८ आसुरी पङ्क्तिः; ९ आसुरी जगती; १० प्राजापत्या त्रिष्टुप्; ११ विराड् गायत्री।

स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑ ॥१॥

3.2

सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑ ॥२॥

3.3

तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन् ॥३॥

3.4

तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ ॥४॥

3.5

बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये ॥५॥

3.6

ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑ ॥६॥

3.7

वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम् ॥७॥

3.8

सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः ॥८॥

3.9

तामा॑स॒न्दीं व्रात्य॒ आरो॑हत् ॥९॥

3.10

तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑ ॥१०॥

3.11

विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑ ॥११॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.