Utshovऐप डाउनलोड करें

सूक्त 1

1.1

अध्यात्म-प्रकरणम्। १-८ अथर्वा। अध्यात्मं, व्रात्यः। १ साम्नी पङ्क्तिः; २ द्विपदा साम्नी बृहती; ३ एकपदा यजुर्ब्राह्म्यनुष्टुप्; ४ एकपदा विराड् गायत्री; ५ साम्नी अनुष्टुप्; ६ त्रिपदा प्राजापत्या बृहती, ७ आसुरी पङ्क्तिः; ८ त्रिपदा अनुष्टुप्।

व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समैरयत् ॥१॥

1.2

स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त् तत् प्राज॑नयत् ॥२॥

1.3

त देक॑मभव॒त् तल्ल॒लाम॑मभव॒त् तन्म॒हद॑भव॒त् तज्ज्ये॒ष्ठम॑भव॒त् तद्
ब्रह्मा॑भव॒त् तत् तपो॑ऽभव॒त् तत् स॒त्यम॑भव॒त् तेन॒ प्राजा॑यत ॥३॥

1.4

सोऽवर्धत॒ स म॒हान॑भव॒त् स म॑हादे॒वोऽभवत् ॥४॥

1.5

स दे॒वाना॑मी॒शां पर्यै॒त् स ईशा॑नोऽभवत् ॥५॥

1.6

स ए॑कव्रा॒त्योऽभव॒त् स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ ध॒नुः ॥६॥

1.7

नील॑मस्यो॒दरं॒ लोहि॑तं पृ॒ष्ठम् ॥७॥

1.8

नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ ब्रह्मवा॒दिनो॑ वदन्ति ॥८॥

Contains text from DharmicData, made available under the Open Database License (ODbL). Simple meanings are written by AI and can contain mistakes.