शुक्ल यजुर्वेद (माध्यन्दिन) 9.36
ये दे॒वा अ॒ग्निने॑त्राः पुर॒ः सद॒स्तेभ्य॒ः स्वाहा॒ ये दे॒वा य॒मने॑त्रा दक्षि॒णासद॒स्तेभ्य॒ः स्वाहा॒ ये दे॒वा वि॒श्वदे॑वनेत्राः पश्चा॒त्सद॒स्तेभ्य॒ः स्वाहा॒ ये दे॒वा मि॒त्रावरु॑णनेत्रा वा म॒रुन्ने॑त्रा वोत्तरा॒सद॒स्तेभ्य॒ः स्वाहा॒ ये दे॒वाः सोम॑नेत्रा उपरि॒सदो॒ दुव॑स्वन्त॒स्तेभ्य॒ः स्वाहा॑ ॥३६॥