शुक्ल यजुर्वेद (माध्यन्दिन) 9.34
वस॑व॒स्त्रयो॑दशाक्षरेण त्रयोद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षंᳪ रु॒द्राश्चतु॑र्दशाक्षरेण चतुर्द॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑षमादि॒त्याः पञ्च॑दशाक्षरेण पञ्चद॒शᳪ स्तोम॒मुद॑जयँ॒स्तमुज्जे॑ष॒मदि॑ति॒ः षोड॑शाक्षरेण षोड॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षं प्र॒जाप॑तिः स॒प्तद॑शाक्षरेण सप्तद॒शᳪ स्तोम॒मुद॑जय॒त्तमुज्जे॑षम् ॥३४॥