शुक्ल यजुर्वेद (माध्यन्दिन) 9.10
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑ᳪ रुहेयम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यस॑वस॒ इन्द्र॑स्योत्त॒मं नाक॑ᳪ रुहेयम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवसो॒ बृह॒स्पते॑रुत्त॒मं नाक॑मरुहम् ।
दे॒वस्या॒हᳪ स॑वि॒तुः स॒वे स॒त्यप्र॑सवस॒ इन्द्र॑स्योत्त॒मं नाक॑मरुहम् ॥१०॥