शुक्ल यजुर्वेद (माध्यन्दिन) 7.25
उ॒प॒या॒मगृ॑हीतोऽसि ध्रु॒वो॒ऽसि ध्रु॒वक्षि॑तिर्ध्रु॒वाणां॑ ध्रु॒वत॒मोऽच्यु॑तानामच्युत॒क्षित्त॑म
ए॒ष ते॒ योनि॑र्वैश्वान॒राय॑ त्वा । ध्रु॒वं ध्रु॒वेण॒ मन॑सा वा॒चा सोम॒मव॑ नयामि ।
अथा॑ न॒ इन्द्र॒ इद्विशो॑ऽसप॒त्नाः सम॑नस॒स्कर॑त् ॥२५॥