शुक्ल यजुर्वेद (माध्यन्दिन) 6.3
या ते॒ धामा॑न्यु॒श्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यास॑ः । अत्राह॒ तदु॑रुगा॒यस्य॒ विष्णो॑ः पर॒मं प॒दमव॑ भारि॒ भूरि॑ ।
ब्र॒ह्म॒वनि॑ त्वा क्षत्र॒वनि॑ रायस्पोष॒वनि॒ पर्यू॑हामि । ब्रह्म॑ दृᳪह क्ष॒त्रं दृ॒ᳪहायु॑र्दृᳪह प्र॒जां दृ॑ᳪह ॥२॥