शुक्ल यजुर्वेद (माध्यन्दिन) 6.26
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ।
शृ॒णोत्व॒ग्निः स॒मिधा॑ ह॒वं मे॑ शृण्व॒न्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।
श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञᳪ शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ॥२६॥