शुक्ल यजुर्वेद (माध्यन्दिन) 30.16
सरो॑भ्यो धैव॒रमु॑प॒स्थाव॑राभ्यो॒ दाशं॑ वैश॒न्ताभ्यो॑ बै॒न्दं न॑ड्व॒लाभ्यः शौष्क॑लं पा॒राय॑ मार्गा॒रम॑वा॒राय॑ कै॒वर्तं॑ ती॒र्थेभ्य॑ आ॒न्दं विष॑मेभ्यो मैना॒लᳪ स्वने॑भ्य॒ः पर्ण॑कं॒ गुहा॑भ्य॒ः किरा॑त॒ᳪ सानु॑भ्यो॒ जम्भ॑कं॒ पर्व॑तेभ्यः किम्पूरु॒षम् ॥१६॥