शुक्ल यजुर्वेद (माध्यन्दिन) 25.8
इन्द्र॑स्य क्री॒डोऽदि॑त्यै पाज॒स्यं॒ दि॒शां ज॒त्रवोऽदि॑त्यै भ॒सज्जी॒मूता॑न् हृदयौप॒शेना॒न्तरि॑क्षं पुरी॒तता॒ नभ॑ उद॒र्ये॒ण चक्रवा॒कौ मत॑स्नाभ्यां॒ दिवं॑ वृ॒क्काभ्यां॑ गि॒रीन् प्ला॒शिभि॒रुप॑लान् प्ली॒ह्ना व॒ल्मीका॑न् क्लो॒मभि॑र्ग्लौ॒भिर्गुल्मा॑न् हि॒राभि॒ः स्रव॑न्तीर्ह्र॒दान् कु॒क्षिभ्या॑ᳪ समु॒द्रमु॒दरे॑ण वैश्वान॒रं भस्म॑ना ॥८॥