शुक्ल यजुर्वेद (माध्यन्दिन) 25.6
म॒रुता॑ᳪ स्कन्धा॒ विश्वे॑षां दे॒वानां॑ प्रथ॒मा कीक॑सा रु॒द्राणां॑ द्वि॒तीया॑ऽऽदि॒त्यानां॑ तृ॒तीया॑ वा॒योः पुच्छ॑म॒ग्नीषोम॑यो॒र्भास॑दौ॒ क्रुञ्चौ॒ श्रोणि॑भ्या॒मिन्द्रा॒बृह॒स्पती॑ ऊ॒रुभ्यां॑ मि॒त्रावरु॑णाव॒ल्गाभ्या॑मा॒क्रम॑णᳪ स्थू॒राभ्यां॒ बलं॒ कुष्ठा॑भ्याम् ॥६॥