शुक्ल यजुर्वेद (माध्यन्दिन) 22.28
नक्ष॑त्रेभ्य॒ः स्वाहा॑ नक्ष॒त्रिये॑भ्य॒ः स्वाहा॑ ऽहोरा॒त्रेभ्य॒ः स्वाहा॑ ऽर्धमा॒सेभ्य॒ः स्वाहा॒ मासे॑भ्य॒ः स्वाहा॑ ऋ॒तुभ्य॒ः स्वाहा॑ ऽऽर्त॒वेभ्य॒ः स्वाहा॑ संवत्स॒राय॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒ᳪ स्वाहा॑ च॒न्द्राय॒ स्वाहा॒ सूर्या॑य॒ स्वाहा॑ र॒श्मिभ्य॒ः स्वाहा॒ वसु॑भ्य॒ः स्वाहा॑ रु॒द्रेभ्य॒ः स्वाहा॑ ऽऽदि॒त्येभ्य॒ः स्वाहा॑ म॒रुद्भ्य॒ः स्वाहा॒ विश्वे॑भ्यो दे॒वेभ्य॒ः स्वाहा॒ मूले॑भ्य॒ः स्वाहा॒ शाखा॑भ्य॒ः स्वाहा॒ वन॒स्पति॑भ्य॒ः स्वाहा॒ पुष्पे॑भ्य॒ः स्वाहा॒ फले॑भ्य॒ः स्वाहौष॑धीभ्य॒ः स्वाहा॑ ॥२८॥