शुक्ल यजुर्वेद (माध्यन्दिन) 21.58
दे॒वो अ॒ग्निः स्वि॑ष्ट॒कृद्दे॒वान्य॑क्षद्यथाय॒थᳪ होता॑रा॒विन्द्र॑म॒श्विना॑ वा॒चा वाच॒ᳪ सर॑स्वतीम॒ग्निᳪ सोम॑ᳪ स्विष्ट॒कृत् स्वि॑ष्ट॒ इन्द्र॑ः सु॒त्रामा॑ सवि॒ता वरु॑णो भि॒षगि॒ष्टो दे॒वो वन॒स्पति॒ः स्वि॒ष्टा दे॒वा आ॑ज्य॒पाः स्वि॑ष्टो अ॒ग्निर॒ग्निना॒ होता॑ हो॒त्रे स्वि॑ष्ट॒कृद्यशो॒ न दध॑दिन्द्रि॒यमूर्ज॒मप॑चितिᳪ स्व॒धां व॑सु॒वने॑ वसु॒धेय॑स्य व्यन्तु॒ यज॑ ॥५८॥