शुक्ल यजुर्वेद (माध्यन्दिन) 21.45
होता॑ यक्ष॒दिन्द्र॑मृष॒भस्य॑ ह॒विष॒ आव॑यद॒द्य म॑ध्य॒तो मेद॒ उद्भृ॑तं पु॒रा द्वेषो॑भ्यः पु॒रा पौ॑रुषेय्या गृ॒भो घस॑न्नू॒नं घा॒से अ॑ज्राणां॒ यव॑सप्रथमानाᳪ सु॒मत्क्ष॑राणाᳪ शतरु॒द्रिया॑णामग्निष्वा॒त्तानां॒ पीवो॑पवसानानां पार्श्व॒तः श्रो॑णि॒तः शि॑ताम॒त उ॑त्साद॒तोऽङ्गा॑दङ्गा॒दव॑त्तानां॒ कर॑दे॒वमिन्द्रो॑ जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑ ॥४५॥