शुक्ल यजुर्वेद (माध्यन्दिन) 21.38
होता॑ यक्षत् सु॒रेर॑समृष॒भं नर्या॑पसं॒ त्वष्टा॑र॒मिन्द्र॑म॒श्विना॑ भि॒षजं॒ न सर॑स्वती॒मोजो॒ न जू॒तिरि॑न्द्रि॒यं वृको॒ न र॑भ॒सो भि॒षग् यश॒ः सुर॑या भेष॒जᳪ श्रि॒या न मास॑रं॒ पय॒ः सोम॑ः परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑ ॥३८॥