शुक्ल यजुर्वेद (माध्यन्दिन) 21.29
होता॑ यक्षत्स॒मिधा॒ऽग्निमि॒डस्प॒देऽश्विनेन्द्र॒ᳪ सर॑स्वतीम॒जो धू॒म्रो न गो॒धूमै॒ः कुव॑लैर्भेष॒जं मधु॒ शष्पै॒र्न तेज॑ इन्द्रि॒यं पय॒ः सोम॑ः परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज ॥२९॥