शुक्ल यजुर्वेद (माध्यन्दिन) 15.13
स्व॒राड॒स्युदी॒ची॒ दिङ्म॒रुत॑स्ते दे॒वा अधि॑पतय॒ः सोमो॑ हेती॒नां प्र॑तिध॒र्तैक॑वि॒ᳪशस्त्वा॒ स्तोम॑ः पृथि॒व्याᳪ श्र॑यतु॒ निष्के॑वल्यमु॒क्थमव्य॑थायै स्तभ्नातु वैरा॒जँ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१३॥