शुक्ल यजुर्वेद (माध्यन्दिन) 15.10
राज्ञ्य॑सि॒ प्राची॒ दिग्वस॑वस्ते दे॒वा अधि॑पतयो॒ऽग्निर्हे॑ती॒नां प्र॑तिध॒र्ता त्रि॒वृत् त्वा॒ स्तोम॑ः पृथि॒व्याᳪ श्र॑य॒त्वाज्य॑मु॒क्थमव्य॑थायै स्तभ्नातु रथन्त॒रᳪ साम॒ प्रति॑ष्ठित्या अ॒न्तरि॑क्ष॒ ऋष॑यस्त्वा प्रथम॒जा दे॒वेषु॑ दि॒वो मात्र॑या वरि॒म्णा प्र॑थन्तु विध॒र्ता चा॒यमधि॑पतिश्च॒ ते त्वा॒ सर्वे॑ संविदा॒ना नाक॑स्य पृ॒ष्ठे स्व॒र्गे लो॒के यज॑मानं च सादयन्तु ॥१॥