शुक्ल यजुर्वेद (माध्यन्दिन) 14.15
नभ॑श्च नभ॒स्य॒श्च॒ वार्षि॑कावृ॒तू अ॒ग्नेर॑न्तः श्ले॒षो॒ऽसि॒ कल्पे॑तां॒ द्यावा॑पृथि॒वी कल्प॑न्ता॒माप॒ ओष॑धय॒ः कल्प॑न्ताम॒ग्नय॒ः पृथ॒ङ्नम॒ ज्यैष्ठ्या॑य॒ सव्र॑ताः।
ये अ॒ग्नय॒ः सम॑नसोऽन्त॒रा द्यावा॑पृथि॒वी इ॒मे | वार्षि॑कावृ॒तू अ॑भि॒कल्प॑माना॒ इन्द्र॑मिव दे॒वा अ॑भि॒संवि॑शन्तु॒ तया॑ दे॒वत॑याऽङ्गिर॒स्वद् ध्रु॒वे सी॑दतम् ॥१५॥