शुक्ल यजुर्वेद (माध्यन्दिन) 13.58
इ॒यमु॒परि॑ म॒तिस्तस्यै॒ वाङ्मा॒त्या हे॑म॒न्तो वा॒च्यः प॒ङ्क्तिर्है॑म॒न्ती प॒ङ्क्त्यै नि॒धन॑वन्नि॒धन॑वत आग्रय॒ण आ॑ग्रय॒णात् त्रि॑णवत्रयस्त्रि॒ᳪशौ त्रि॑णवत्रयस्त्रि॒ᳪशाभ्या॑ᳪ शाक्वररैव॒ते वि॒श्वक॑र्म॒ ऋषि॑ः प्र॒जाप॑तिगृहीतया॒ त्वया॒ वाचं॑ गृह्णामि प्र॒जाभ्यो॑ लो॒कं ता इन्द्र॑म् ॥५८॥