शुक्ल यजुर्वेद (माध्यन्दिन) 13.54
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती
गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒ᳪशुरु॑पा॒ᳪशोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ ऋषि॑ः
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑ः ॥५४॥