शुक्ल यजुर्वेद (माध्यन्दिन) 11.58
वस॑वस्त्वा कृण्वन्तु गाय॒त्रेण॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॑ पृथि॒व्य॒सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय रु॒द्रास्त्वा॑ कृण्वन्तु॒ त्रैष्टु॑भेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽस्य॒न्तरि॑क्षमसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानायादि॒त्यास्त्वा॑ कृण्वन्तु॒ जाग॑तेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वासि द्यौर॑सि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ
सजा॒तान्यज॑मानाय॒ विश्वे॑ त्वा दे॒वा वै॑श्वान॒राः कृ॑ण्व॒न्त्वानु॑ष्टुभेन॒ छन्द॑साऽङ्गिर॒स्वद्ध्रु॒वाऽसि॒ दिशो॑ऽसि धा॒रया॒ मयि॑ प्र॒जाᳪ रा॒यस्पोषं॑ गौप॒त्यᳪ सु॒वीर्य॑ᳪ सजा॒तान्यज॑मानाय ॥५८॥