शुक्ल यजुर्वेद (माध्यन्दिन) 10.8
क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॑ ज॒राय्व॑सि क्ष॒त्रस्य॒ योनि॑रसि क्ष॒त्रस्य॒ नाभि॑र॒सीन्द्र॑स्य॒ वार्त्र॑घ्नमसि मि॒त्रस्या॑सि॒ वरु॑णस्यासि॒
त्वया॒ऽयं वृ॒त्रं ब॑धेत् । दृ॒बाऽसि॑ रु॒जाऽसि॑ क्षु॒माऽसि॑ । पा॒तैनं॒ प्राञ्चं॑ पा॒तैनं प्र॒त्यञ्चं॑ पा॒तैनं॑ ति॒र्यञ्चं॑ दि॒ग्भ्यः पा॑त ॥८॥