शुक्ल यजुर्वेद (काण्व) 9.13
आयु॑र्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे । रु॒द्राय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । प्रा॒णो दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे। बृह॒स्पत॑ये त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । त्वग्दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ।
य॒माय॑ त्वा॒ मह्यं॒ वरु॑णो ददातु॒ सो॑ऽमृत॒त्वम॑श्यात् । वयो॑ दा॒त्र ए॑धि॒ मयो॒ मह्यं॑ प्रतिग्रही॒त्रे ॥८॥