शुक्ल यजुर्वेद (काण्व) 8.23
(१५) २२
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ । दृ॒शे विश्वा॑य॒ सूर्य॑म् ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सूर्या॑य त्वा भ्रा॒ज ए॒ष ते॒ योनिः॒ सूर्या॑य त्वा भ्रा॒जे ।
सूर्य॑ भ्राजस्व॒न्भ्राज॑स्वा॒ᳪस्त्वं दे॒वेष्वसि॑ । भ्राज॑स्वान॒हं म॑नु॒ष्ये॑षु भूयासम् ॥१॥