Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 7.30

(११) २९
उ॒प॒या॒मगृ॑हीतोऽसि॒ मध॑वे त्वोपया॒मगृ॑हीतोऽसि॒ माध॑वाय त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि शु॒क्राय॑ त्वोपया॒मगृ॑हीतोऽसि॒ शुच॑ये त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ नभ॑से त्वोपया॒मगृ॑हीतोऽसि॒ नभ॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसी॒षे त्वो॑पया॒मगृ॑हीतो स्यू॒र्जे त्वा॑ ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ सह॑से त्वोपया॒मगृ॑हीतोऽसि सह॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽसि॒ तप॑से त्वोपया॒मगृ॑हीतोऽसि तप॒स्या॑य त्वा ।
उ॒प॒या॒मगृ॑हीतोऽस्यᳪ हसस्प॒तये॑ त्वा ॥१॥

पूरा अध्याय