शुक्ल यजुर्वेद (काण्व) 7.25
दे॒वेभ्य॑स्त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे मि॒त्रावरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॑य त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष इन्द्रा॒ग्निभ्यां॑ त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॑य त्वा देवायुवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒वरु॑णाभ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ।
इन्द्रा॒बृह॒स्पति॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑ष॒ इन्द्रा॒विष्णु॑भ्यां त्वा देवा॒युवं॑ गृह्णामि य॒ज्ञस्यायु॑षे ॥२॥