शुक्ल यजुर्वेद (काण्व) 7.23
अ॒स्मै ब्रह्म॑णे पवते॒ऽस्मै क्ष॒त्राय॑ पवते॒ऽस्मै सु॑न्व॒ते यज॑मानाय पवते ।
इ॒ष ऊ॒र्जे प॑वते॒ऽद्भ्य ओष॑धीभ्यः पवते॒ द्यावा॑पृथि॒वीभ्यां॑ पवते सुभू॒ताय॑ पवते ब्रह्मवर्च॒साय॑ पवते।
विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ए॒ष ते॒ योनि॒र्विश्वे॑भ्यस्त्वा दे॒वेभ्यः॑ ॥४॥