Utshovऐप डाउनलोड करें

शुक्ल यजुर्वेद (काण्व) 6.52

अथ षष्ठोऽध्यायः ।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॒ऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् ।
आद॑दे॒ नार्य॑सी॒दम॒हᳪ रक्ष॑सो ग्री॒वा अपि॑कृन्तामि ।
यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ य॒वयारा॑तीः ।
दि॒वे त्वा॒न्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॑ ।
शुन्ध॑न्ताँल्लो॒काः पि॑तृ॒षद॑नाः पितृ॒षद॑नमसि ॥१॥

पूरा अध्याय